Bhagvad Gita 10-01


 श्रीभगवानुवाच
भूय एव महाबाहो श‍ृणु मे परमं वच: ।
यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥ १ ॥

Bhagvad Gita 10-02


 न मे विदु: सुरगणा: प्रभवं न महर्षय: ।
अहमादिर्हि देवानां महर्षीणां च सर्वश: ॥ २ ॥

Bhagvad Gita 10-03


 यो मामजमनादिं च वेत्ति लोकमहेश्वरम् ।
असम्मूढ: स मर्त्येषु सर्वपापै: प्रमुच्यते ॥ ३ ॥

Bhagvad Gita 10-04-05


 बुद्धिर्ज्ञानमसम्मोह: क्षमा सत्यं दम: शम: ।
सुखं दु:खं भवोऽभावो भयं चाभयमेव च ॥ ४ ॥
अहिंसा समता तुष्टिस्तपो दानं यशोऽयश: ।
भवन्ति भावा भूतानां मत्त एव पृथग्विधा: ॥ ५ ॥

Bhagvad Gita 10-06


 महर्षय: सप्‍त पूर्वे चत्वारो मनवस्तथा ।
मद्भ‍ावा मानसा जाता येषां लोक इमा: प्रजा: ॥ ६ ॥

Bhagvad Gita 10-07


 एतां विभूतिं योगं च मम यो वेत्ति तत्त्वत: ।
सोऽविकल्पेन योगेन युज्यते नात्र संशय: ॥ ७ ॥

Bhagvad Gita 10-08


 अहं सर्वस्य प्रभवो मत्त: सर्वं प्रवर्तते ।
इति मत्वा भजन्ते मां बुधा भावसमन्विता: ॥ ८ ॥