Bhagavad Gita Sanskrit Shlokas Chapter 1 : Observing the armies on the Battlefield of Kurukshetra / Arjun Vishad Yog
Chapter 1
धृतराष्ट्र उवाच |
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः |
मामकाः पाण्डवाश्चैव किमकुर्वत
सञ्जय ||1||
सञ्जय उवाच ।
दृष्ट्वा तु पाण्डवानीकं
व्यूढं दुर्योधनस्तदा ।
आचार्यमुपसङ्गम्य राजा वचनमब्रवीत्
।। 2।।
पश्यैतां पाण्डुपुत्राणामाचार्य महतीं
चमूम् ।
व्यूढां द्रुपदपुत्रेण तव
शिष्येण धीमता ।। 3।।
अत्र शूरा
महेष्वासा भीमार्जुनसमा युधि
युयुधानो विराटश्च द्रुपदश्च
महारथ: || 4||
धृष्टकेतुश्चेकितान: काशिराजश्च वीर्यवान् |
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गव: || 5||
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान्
|
सौभद्रो द्रौपदेयाश्च सर्व
एव महारथा: || 6||
अस्माकं तु विशिष्टा
ये तान्निबोध द्विजोत्तम
|
नायका मम सैन्यस्य
संज्ञार्थं तान्ब्रवीमि ते || 7||
भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जय:
|
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव
च || 8||
अन्ये च बहव:
शूरा मदर्थे त्यक्तजीविता:
|
नानाशस्त्रप्रहरणा: सर्वे युद्धविशारदा: || 9||
अपर्याप्तं तदस्माकं बलं
भीष्माभिरक्षितम् |
पर्याप्तं त्विदमेतेषां बलं
भीमाभिरक्षितम् || 10||
अयनेषु च सर्वेषु
यथाभागमवस्थिता: |
भीष्ममेवाभिरक्षन्तु भवन्त: सर्व एव
हि || 11||
तस्य सञ्जनयन्हर्षं
कुरुवृद्ध: पितामह: |
सिंहनादं विनद्योच्चै: शङ्खं
दध्मौ प्रतापवान् || 12||
तत: शङ्खाश्च
भेर्यश्च पणवानकगोमुखा: |
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत्
|| 13||
तत: श्वेतैर्हयैर्युक्ते
महति स्यन्दने स्थितौ
|
माधव: पाण्डवश्चैव दिव्यौ
शङ्खौ प्रदध्मतु: || 14||
पाञ्चजन्यं हृषीकेशो देवदत्तं
धनञ्जय: |
पौण्ड्रं दध्मौ महाशङ्खं
भीमकर्मा वृकोदर: || 15||
अनन्तविजयं राजा कुन्तीपुत्रो
युधिष्ठिर: |
नकुल: सहदेवश्च सुघोषमणिपुष्पकौ
|| 16||
काश्यश्च परमेष्वास: शिखण्डी
च महारथ: |
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजित: || 17||
द्रुपदो द्रौपदेयाश्च सर्वश:
पृथिवीपते |
सौभद्रश्च महाबाहु: शङ्खान्दध्मु:
पृथक् पृथक् || 18||
स घोषो
धार्तराष्ट्राणां हृदयानि व्यदारयत् |
नभश्च पृथिवीं चैव
तुमुलोऽभ्यनुनादयन् || 19||
अथ व्यवस्थितान्दृष्ट्वा
धार्तराष्ट्रान् कपिध्वज: |
प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डव: |
अर्जुन उवाच |
सेनयोरुभयोर्मध्ये रथं स्थापय
मेऽच्युत
कैर्मया सह योद्धव्यमस्मिन्
रणसमुद्यमे || 22||
योत्स्यमानानवेक्षेऽहं य एतेऽत्र
समागता: |
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षव: || 23||
सञ्जय उवाच |
एवमुक्तो हृषीकेशो गुडाकेशेन
भारत |
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् || 24||
भीष्मद्रोणप्रमुखत: सर्वेषां च महीक्षिताम्
|
उवाच पार्थ
पश्यैतान्समवेतान्कुरूनिति ||
25||
तत्रापश्यत्स्थितान् पार्थ: पितृ नथ
पितामहान् |
आचार्यान्मातुलान्भ्रातृ न्पुत्रान्पौत्रान्सखींस्तथा
तान्समीक्ष्य स कौन्तेय:
सर्वान्बन्धूनवस्थितान्
अर्जुन उवाच |
दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् |
वेपथुश्च शरीरे मे
रोमहर्षश्च जायते
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मन:|
निमित्तानि च पश्यामि विपरीतानि केशव || 30||
न च
श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे
किं नो
राज्येन गोविन्द किं भोगैर्जीवितेन
वा
त इमेऽवस्थिता
युद्धे प्राणांस्त्यक्त्वा धनानि च
आचार्या: पितर: पुत्रास्तथैव
च पितामहा:
मातुला: श्वशुरा: पौत्रा: श्याला: सम्बन्धिनस्तथा |
अपि त्रैलोक्यराज्यस्य
हेतो: किं नु
महीकृते
पापमेवाश्रयेदस्मान्हत्वैतानाततायिन:
तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् |
स्वजनं हि कथं
हत्वा सुखिन: स्याम
माधव || 36 ||
यद्यप्येते न पश्यन्ति
लोभोपहतचेतस: |
कुलक्षयकृतं दोषं मित्रद्रोहे
च पातकम् || 37 ||
कथं न
ज्ञेयमस्माभि: पापादस्मान्निवर्तितुम् |
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन
|| 38||
कुलक्षये प्रणश्यन्ति कुलधर्मा:
सनातना: |
धर्मे नष्टे कुलं
कृत्स्नमधर्मोऽभिभवत्युत || 39||
अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रिय: |
स्त्रीषु दुष्टासु वार्ष्णेय
जायते वर्णसङ्कर: || 40||
सङ्करो नरकायैव कुलघ्नानां
कुलस्य च |
पतन्ति पितरो ह्येषां
लुप्तपिण्डोदकक्रिया: || 41||
दोषैरेतै: कुलघ्नानां वर्णसङ्करकारकै:
|
उत्साद्यन्ते जातिधर्मा: कुलधर्माश्च शाश्वता:
|| 42||
उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन |
नरकेऽनियतं वासो भवतीत्यनुशुश्रुम
|| 43||
अहो बत
महत्पापं कर्तुं व्यवसिता वयम्
|
यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यता: || 44||
यदि मामप्रतीकारमशस्त्रं
शस्त्रपाणय: |
धार्तराष्ट्रा रणे हन्युस्तन्मे
क्षेमतरं भवेत् || 45||
सञ्जय उवाच
एवमुक्त्वार्जुन: सङ्ख्ये रथोपस्थ उपाविशत्
|
विसृज्य सशरं चापं
शोकसंविग्नमानस: || 46||