Bhagavad Gita Sanskrit Shlokas Chapter 17 : The Divisions of Faith

Bhagavad Gita Sanskrit Shlokas Chapter 17 : The Divisions of Faith / Shraddha Ke Vibhag

Chapter 17 

अर्जुन उवाच |

ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विता: |

तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तम: || 1||

 

श्रीभगवानुवाच |

त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा |

सात्त्विकी राजसी चैव तामसी चेति तां शृणु || 2||

 

सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत |

श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्ध: एव : || 3||

 

यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसा: |

प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जना: || 4||

 

अशास्त्रविहितं घोरं तप्यन्ते ये तपो जना: |

दम्भाहङ्कारसंयुक्ता: कामरागबलान्विता: || 5||

 

कर्षयन्त: शरीरस्थं भूतग्राममचेतस: |

मां चैवान्त:शरीरस्थं तान्विद्ध्यासुरनिश्चयान् || 6||

 

आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रिय: |

यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु || 7||

 

आयु:सत्त्वबलारोग्यसुखप्रीतिविवर्धना: |

रस्या: स्निग्धा: स्थिरा हृद्या आहारा: सात्त्विकप्रिया: || 8||

 

कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिन: |

आहारा राजसस्येष्टा दु:खशोकामयप्रदा: || 9||

 

यातयामं गतरसं पूति पर्युषितं यत् |

उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् || 10||

 

अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो इज्यते |

यष्टव्यमेवेति मन: समाधाय सात्त्विक: || 11||

 

अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् |

इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् || 12||

 

विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् |

श्रद्धाविरहितं यज्ञं तामसं परिचक्षते || 13||

 

देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् |

ब्रह्मचर्यमहिंसा शारीरं तप उच्यते || 14||

 

अनुद्वेगकरं वाक्यं सत्यं प्रियहितं यत् |

स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते || 15||

 

मन: प्रसाद: सौम्यत्वं मौनमात्मविनिग्रह: |

भावसंशुद्धिरित्येतत्तपो मानसमुच्यते || 16||

 

श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरै: |

अफलाकाङ्क्षिभिर्युक्तै: सात्त्विकं परिचक्षते || 17||

 

सत्कारमानपूजार्थं तपो दम्भेन चैव यत् |

क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् || 18||

 

मूढग्राहेणात्मनो यत्पीडया क्रियते तप: |

परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् || 19||

 

दातव्यमिति यद्दानं दीयतेऽनुपकारिणे |

देशे काले पात्रे तद्दानं सात्त्विकं स्मृतम् || 20||

 

यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुन: |

दीयते परिक्लिष्टं तद्दानं राजसं स्मृतम् || 21||

 

अदेशकाले यद्दानमपात्रेभ्यश्च दीयते |

असत्कृतमवज्ञातं तत्तामसमुदाहृतम् || 22||

 

तत्सदिति निर्देशो ब्रह्मणस्त्रिविध: स्मृत: |

ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिता: पुरा || 23||

 

तस्माद् इत्युदाहृत्य यज्ञदानतप:क्रिया: |

प्रवर्तन्ते विधानोक्ता: सततं ब्रह्मवादिनाम् || 24||

 

तदित्यनभिसन्धाय फलं यज्ञतप:क्रिया: |

दानक्रियाश्च विविधा: क्रियन्ते मोक्षकाङ्क्षिभि: || 25||

 

सद्भावे साधुभावे सदित्येतत्प्रयुज्यते |

प्रशस्ते कर्मणि तथा सच्छब्द: पार्थ युज्यते || 26||

 

यज्ञे तपसि दाने स्थिति: सदिति चोच्यते |

कर्म चैव तदर्थीयं सदित्येवाभिधीयते || 27||

 

अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं यत् |

असदित्युच्यते पार्थ तत्प्रेत्य नो इह || 28||