Bhagavad Gita Sanskrit Shlokas Chapter 15 : Yoga of the Supteme Person / Purushottam Yog
Chapter 15
श्रीभगवानुवाच |
ऊर्ध्वमूलमध:शाखमश्वत्थं प्राहुरव्ययम्
|
छन्दांसि यस्य पर्णानि
यस्तं वेद स
वेदवित् || 1||
अधश्चोर्ध्वं प्रसृतास्तस्य शाखा
गुणप्रवृद्धा विषयप्रवाला: |
अधश्च मूलान्यनुसन्ततानि
कर्मानुबन्धीनि मनुष्यलोके || 2||
न रूपमस्येह
तथोपलभ्यते
नान्तो न चादिर्न
च सम्प्रतिष्ठा |
अश्वत्थमेनं सुविरूढमूल
मसङ्गशस्त्रेण दृढेन छित्त्वा || 3||
तत: पदं
तत्परिमार्गितव्यं
यस्मिन्गता न निवर्तन्ति
भूय: |
तमेव चाद्यं
पुरुषं प्रपद्ये
यत: प्रवृत्ति:
प्रसृता पुराणी || 4||
निर्मानमोहा जितसङ्गदोषा
अध्यात्मनित्या विनिवृत्तकामा: |
द्वन्द्वैर्विमुक्ता: सुखदु:खसंज्ञै
र्गच्छन्त्यमूढा: पदमव्ययं तत् || 5||
न तद्भासयते
सूर्यो न शशाङ्को
न पावक: |
यद्गत्वा न निवर्तन्ते
तद्धाम परमं मम
|| 6||
ममैवांशो जीवलोके जीवभूत:
सनातन: |
मन:षष्ठानीन्द्रियाणि
प्रकृतिस्थानि कर्षति || 7||
शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वर:
|
गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् || 8||
श्रोत्रं चक्षु: स्पर्शनं
च रसनं घ्राणमेव
च |
अधिष्ठाय मनश्चायं विषयानुपसेवते
|| 9||
उत्क्रामन्तं स्थितं वापि भुञ्जानं
वा गुणान्वितम् |
विमूढा नानुपश्यन्ति पश्यन्ति
ज्ञानचक्षुष: || 10||
यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम्
|
यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतस:
|| 11||
यदादित्यगतं तेजो जगद्भासयतेऽखिलम्
|
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि
मामकम् || 12 ||
गामाविश्य च भूतानि
धारयाम्यहमोजसा |
पुष्णामि चौषधी: सर्वा:
सोमो भूत्वा रसात्मक:
|| 13||
अहं वैश्वानरो
भूत्वा प्राणिनां देहमाश्रित: |
प्राणापानसमायुक्त: पचाम्यन्नं चतुर्विधम् || 14||
सर्वस्य चाहं हृदि
सन्निविष्टो
मत्त: स्मृतिर्ज्ञानमपोहनं च
|
वेदैश्च सर्वैरहमेव वेद्यो
वेदान्तकृद्वेदविदेव चाहम् || 15||
द्वाविमौ पुरुषौ लोके
क्षरश्चाक्षर एव च
|
क्षर: सर्वाणि भूतानि
कूटस्थोऽक्षर उच्यते || 16||
उत्तम: पुरुषस्त्वन्य: परमात्मेत्युदाहृत:
|
यो लोकत्रयमाविश्य
बिभर्त्यव्यय ईश्वर: || 17||
यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तम: |
अतोऽस्मि लोके वेदे
च प्रथित: पुरुषोत्तम:
|| 18||
यो मामेवमसम्मूढो
जानाति पुरुषोत्तमम् |
स सर्वविद्भजति
मां सर्वभावेन भारत
|| 19||
इति गुह्यतमं
शास्त्रमिदमुक्तं मयानघ |
एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत || 20||