Bhagavad Gita Sanskrit Shlokas Chapter 16 : The Divine and Demoniac Natures / Daivi Tatha Asuri Swabhav
Chapter 16
श्रीभगवानुवाच |
अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थिति:
|
दानं दमश्च
यज्ञश्च स्वाध्यायस्तप आर्जवम् || 1||
अहिंसा सत्यमक्रोधस्त्याग: शान्तिरपैशुनम्
|
दया भूतेष्वलोलुप्त्वं
मार्दवं ह्रीरचापलम् || 2||
तेज: क्षमा
धृति: शौचमद्रोहोनातिमानिता |
भवन्ति सम्पदं दैवीमभिजातस्य
भारत || 3||
दम्भो दर्पोऽभिमानश्च क्रोध:
पारुष्यमेव च |
अज्ञानं चाभिजातस्य पार्थ
सम्पदमासुरीम् || 4||
दैवी सम्पद्विमोक्षाय
निबन्धायासुरी मता |
मा शुच:
सम्पदं दैवीमभिजातोऽसि पाण्डव || 5||
द्वौ भूतसर्गौ
लोकेऽस्मिन्दैव आसुर एव
च |
दैवो विस्तरश:
प्रोक्त आसुरं पार्थ मे
शृणु || 6||
प्रवृत्तिं च निवृत्तिं
च जना न
विदुरासुरा: |
न शौचं
नापि चाचारो न
सत्यं तेषु विद्यते
|| 7||
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्
|
अपरस्परसम्भूतं किमन्यत्कामहैतुकम् || 8||
एतां दृष्टिमवष्टभ्य
नष्टात्मानोऽल्पबुद्धय: |
प्रभवन्त्युग्रकर्माण: क्षयाय जगतोऽहिता: || 9||
काममाश्रित्य दुष्पूरं दम्भमानमदान्विता: |
मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रता:
|| 10||
चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिता:
|
कामोपभोगपरमा एतावदिति निश्चिता: || 11||
आशापाशशतैर्बद्धा: कामक्रोधपरायणा: |
ईहन्ते कामभोगार्थमन्यायेनार्थसञ्जयान् || 12||
इदमद्य मया लब्धमिमं
प्राप्स्ये मनोरथम् |
इदमस्तीदमपि मे भविष्यति
पुनर्धनम् || 13||
असौ मया
हत: शत्रुर्हनिष्ये चापरानपि
|
ईश्वरोऽहमहं भोगी सिद्धोऽहं
बलवान्सुखी || 14||
आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया |
यक्ष्ये दास्यामि मोदिष्य
इत्यज्ञानविमोहिता: || 15||
अनेकचित्तविभ्रान्ता मोहजालसमावृता: |
प्रसक्ता: कामभोगेषु पतन्ति
नरकेऽशुचौ || 16||
आत्मसम्भाविता: स्तब्धा धनमानमदान्विता: |
यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम्
|| 17||
अहङ्कारं बलं दर्पं
कामं क्रोधं च
संश्रिता: |
मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयका: || 18||
तानहं द्विषत: क्रूरान्संसारेषु
नराधमान् |
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु || 19||
आसुरीं योनिमापन्ना मूढा
जन्मनि जन्मनि |
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां
गतिम् || 20||
त्रिविधं नरकस्येदं द्वारं
नाशनमात्मन: |
काम: क्रोधस्तथा
लोभस्तस्मादेतत्त्रयं त्यजेत् || 21||
एतैर्विमुक्त: कौन्तेय तमोद्वारैस्त्रिभिर्नर: |
आचरत्यात्मन: श्रेयस्ततो याति परां
गतिम् || 22||
य: शास्त्रविधिमुत्सृज्य
वर्तते कामकारत: |
न स
सिद्धिमवाप्नोति न सुखं
न परां गतिम्
|| 23||
तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ
|
ज्ञात्वा शास्त्रविधानोक्तं कर्म
कर्तुमिहार्हसि || 24||