Bhagavad Gita Sanskrit Verses Chapter 6: Dhyan Yoga
Chapter 6
श्रीभगवानुवाच |
अनाश्रित: कर्मफलं कार्यं
कर्म करोति य:
|
स संन्यासी
च योगी च
न निरग्निर्न चाक्रिय:
|| 1||
यं संन्यासमिति
प्राहुर्योगं तं विद्धि
पाण्डव |
न ह्यसंन्यस्तसङ्कल्पो
योगी भवति कश्चन
|| 2||
आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते
|
योगारूढस्य तस्यैव शम:
कारणमुच्यते || 3||
यदा हि
नेन्द्रियार्थेषु न कर्मस्वनुषज्जते
|
सर्वसङ्कल्पसंन्यासी योगारूढस्तदोच्यते || 4||
उद्धरेदात्मनात्मानं नात्मानमवसादयेत् |
आत्मैव ह्यात्मनो बन्धुरात्मैव
रिपुरात्मन: || 5||
बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जित: |
अनात्मनस्तु शत्रुत्वे वर्ते
तात्मैव शत्रुवत् || 6||
जितात्मन: प्रशान्तस्य परमात्मा
समाहित: |
शीतोष्णसुखदु:खेषु तथा
मानापमानयो: || 7||
ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रिय: |
युक्त इत्युच्यते योगी
समलोष्टाश्मकाञ्चन: || 8||
सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु
|
साधुष्वपि च पापेषु
समबुद्धिर्विशिष्यते || 9||
योगी युञ्जीत
सततमात्मानं रहसि स्थित:
|
एकाकी यतचित्तात्मा निराशीरपरिग्रह:
|| 10||
शुचौ देशे
प्रतिष्ठाप्य स्थिरमासनमात्मन: |
नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् || 11||
तत्रैकाग्रं मन: कृत्वा
यतचित्तेन्द्रियक्रिय: |
उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये || 12||
समं कायशिरोग्रीवं
धारयन्नचलं स्थिर: |
सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन्
|| 13||
प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थित: |
मन: संयम्य
मच्चित्तो युक्त आसीत मत्पर:
|| 14||
युञ्जन्नेवं सदात्मानं योगी
नियतमानस: |
शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति
|| 15||
नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नत:
|
न चाति
स्वप्नशीलस्य जाग्रतो नैव चार्जुन
|| 16||
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु |
युक्तस्वप्नावबोधस्य योगो भवति
दु:खहा || 17||
यदा विनियतं
चित्तमात्मन्येवावतिष्ठते |
नि:स्पृह:
सर्वकामेभ्यो युक्त इत्युच्यते तदा
|| 18||
यथा दीपो
निवातस्थो नेङ्गते सोपमा स्मृता
|
योगिनो यतचित्तस्य युञ्जतो
योगमात्मन: || 19||
यत्रोपरमते चित्तं निरुद्धं
योगसेवया |
यत्र चैवात्मनात्मानं
पश्यन्नात्मनि तुष्यति || 20||
सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम् |
वेत्ति यत्र न
चैवायं स्थितश्चलति तत्त्वत: || 21||
यं लब्ध्वा
चापरं लाभं मन्यते
नाधिकं तत: |
यस्मिन्स्थितो न दु:खेन गुरुणापि
विचाल्यते || 22||
तं विद्याद्
दु:खसंयोगवियोगं योगसञ्ज्ञितम्
|
स निश्चयेन
योक्तव्यो योगोऽनिर्विण्णचेतसा || 23||
सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषत: |
मनसैवेन्द्रियग्रामं विनियम्य समन्तत: || 24||
शनै: शनैरुपरमेद्बुद्ध्या
धृतिगृहीतया |
आत्मसंस्थं मन: कृत्वा
न किञ्चिदपि चिन्तयेत्
|| 25||
यतो यतो
निश्चरति मनश्चञ्चलमस्थिरम् |
ततस्ततो नियम्यैतदात्मन्येव वशं
नयेत् || 26||
प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम्
|
उपैति शान्तरजसं ब्रह्मभूतमकल्मषम्
|| 27||
युञ्जन्नेवं सदात्मानं योगी
विगतकल्मष: |
सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते
|| 28||
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि |
ईक्षते योगयुक्तात्मा सर्वत्र
समदर्शन: || 29||
यो मां
पश्यति सर्वत्र सर्वं च
मयि पश्यति |
तस्याहं न प्रणश्यामि
स च मे
न प्रणश्यति || 30||
सर्वभूतस्थितं यो मां
भजत्येकत्वमास्थित: |
सर्वथा वर्तमानोऽपि स
योगी मयि वर्तते
|| 31||
आत्मौपम्येन सर्वत्र समं
पश्यति योऽर्जुन |
सुखं वा
यदि वा दु:खं स
योगी परमो मत:
|| 32||
अर्जुन उवाच |
योऽयं योगस्त्वया प्रोक्त:
साम्येन मधुसूदन |
एतस्याहं न पश्यामि
चञ्चलत्वात्स्थितिं स्थिराम् || 33||
चञ्चलं हि मन:
कृष्ण प्रमाथि बलवद्दृढम्
|
तस्याहं निग्रहं मन्ये
वायोरिव सुदुष्करम् || 34||
श्रीभगवानुवाच |
असंशयं महाबाहो मनो
दुर्निग्रहं चलम् |
अभ्यासेन तु कौन्तेय
वैराग्येण च गृह्यते
|| 35||
असंयतात्मना योगो दुष्प्राप
इति मे मति:
|
वश्यात्मना तु यतता
शक्योऽवाप्तुमुपायत: || 36||
अर्जुन उवाच |
अयति: श्रद्धयोपेतो योगाच्चलितमानस:
|
अप्राप्य योगसंसिद्धिं कां
गतिं कृष्ण गच्छति
|| 37||
कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति |
अप्रतिष्ठो महाबाहो विमूढो
ब्रह्मण: पथि || 38||
एतन्मे संशयं कृष्ण
छेत्तुमर्हस्यशेषत: |
त्वदन्य: संशयस्यास्य छेत्ता
न ह्युपपद्यते || 39||
श्रीभगवानुवाच |
पार्थ नैवेह नामुत्र
विनाशस्तस्य विद्यते |
न हि
कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति
|| 40||
प्राप्य पुण्यकृतां लोकानुषित्वा
शाश्वती: समा: |
शुचीनां श्रीमतां गेहे
योगभ्रष्टोऽभिजायते || 41||
अथवा योगिनामेव
कुले भवति धीमताम्
|
एतद्धि दुर्लभतरं लोके
जन्म यदीदृशम् || 42||
तत्र तं
बुद्धिसंयोगं लभते पौर्वदेहिकम्
|
यतते च
ततो भूय: संसिद्धौ
कुरुनन्दन || 43||
पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि
स: |
जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते
|| 44||
प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिष:
|
अनेकजन्मसंसिद्धस्ततो याति परां
गतिम् || 45||
तपस्विभ्योऽधिकोयोगी
ज्ञानिभ्योऽपिमतोऽधिक:|
कर्मिभ्यश्चाधिकोयोगी
तस्माद्योगीभवार्जुन|| 46||
योगिनामपि सर्वेषां मद्गतेनान्तरात्मना
|
श्रद्धावान्भजते यो मां
स मे युक्ततमो
मत: || 47||