Bhagavad Gita Sanskrit Shlokas Chapter 10 : The Opulence of the Absolute

 Bhagavad Gita Sanskrit Shlokas Chapter 10 : The Opulence of the Absolute / Shri Bhagvan ka Eshwaya

Chapter 10

श्रीभगवानुवाच |

भूय एव महाबाहो शृणु मे परमं वच: |

यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया || 1||

 

मे विदु: सुरगणा: प्रभवं महर्षय: |

अहमादिर्हि देवानां महर्षीणां सर्वश: || 2||

 

यो मामजमनादिं वेत्ति लोकमहेश्वरम् |

असम्मूढ: मर्त्येषु सर्वपापै: प्रमुच्यते || 3||

 

बुद्धिर्ज्ञानमसम्मोह: क्षमा सत्यं दम: शम: |

सुखं दु:खं भवोऽभावो भयं चाभयमेव || 4||

 

अहिंसा समता तुष्टिस्तपो दानं यशोऽयश: |

भवन्ति भावा भूतानां मत्त एव पृथग्विधा: || 5||

 

महर्षय: सप्त पूर्वे चत्वारो मनवस्तथा |

मद्भावा मानसा जाता येषां लोक इमा: प्रजा: || 6||

 

एतां विभूतिं योगं मम यो वेत्ति तत्त्वत: |

सोऽविकम्पेन योगेन युज्यते नात्र संशय: || 7||

 

अहं सर्वस्य प्रभवो मत्त: सर्वं प्रवर्तते |

इति मत्वा भजन्ते मां बुधा भावसमन्विता: || 8||

 

मच्चित्ता मद्गतप्राणा बोधयन्त: परस्परम् |

कथयन्तश्च मां नित्यं तुष्यन्ति रमन्ति || 9||

 

तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् |

ददामि बुद्धियोगं तं येन मामुपयान्ति ते || 10||

 

तेषामेवानुकम्पार्थमहमज्ञानजं तम: |

नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता || 11||

 

अर्जुन उवाच |

परं ब्रह्म परं धाम पवित्रं परमं भवान् |

पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् || 12||

 

आहुस्त्वामृषय: सर्वे देवर्षिर्नारदस्तथा |

असितो देवलो व्यास: स्वयं चैव ब्रवीषि मे || 13||

 

सर्वमेतदृतं मन्ये यन्मां वदसि केशव |

हि ते भगवन्व्यक्तिं विदुर्देवा दानवा: || 14||

 

स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम |

भूतभावन भूतेश देवदेव जगत्पते || 15||

 

वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतय: |

याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि || 16||

 

कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् |

केषु केषु भावेषु चिन्त्योऽसि भगवन्मया || 17||

 

विस्तरेणात्मनो योगं विभूतिं जनार्दन |

भूय: कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् || 18||

 

श्रीभगवानुवाच |

हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतय: |

प्राधान्यत: कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ||19||

 

अहमात्मा गुडाकेश सर्वभूताशयस्थित: |

अहमादिश्च मध्यं भूतानामन्त एव || 20||

 

आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् |

मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी || 21||

 

वेदानां सामवेदोऽस्मि देवानामस्मि वासव: |

इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना || 22||

 

रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् |

वसूनां पावकश्चास्मि मेरु: शिखरिणामहम् || 23||

 

पुरोधसां मुख्यं मां विद्धि पार्थ बृहस्पतिम् |

सेनानीनामहं स्कन्द: सरसामस्मि सागर: || 24||

 

महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् |

यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालय: || 25||

 

अश्वत्थ: सर्ववृक्षाणां देवर्षीणां नारद: |

गन्धर्वाणां चित्ररथ: सिद्धानां कपिलो मुनि: || 26||

 

उच्चै:श्रवसमश्वानां विद्धि माममृतोद्भवम् |

ऐरावतं गजेन्द्राणां नराणां नराधिपम् || 27||

 

आयुधानामहं वज्रं धेनूनामस्मि कामधुक् |

प्रजनश्चास्मि कन्दर्प: सर्पाणामस्मि वासुकि: || 28||

 

अनन्तश्चास्मि नागानां वरुणो यादसामहम् |

पितृणामर्यमा चास्मि यम: संयमतामहम् || 29||

 

प्रह्लादश्चास्मि दैत्यानां काल: कलयतामहम् |

मृगाणां मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् || 30||

 

पवन: पवतामस्मि राम: शस्त्रभृतामहम् |

झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी || 31||

 

सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन |

अध्यात्मविद्या विद्यानां वाद: प्रवदतामहम् || 32||

 

अक्षराणामकारोऽस्मि द्वन्द्व: सामासिकस्य |

अहमेवाक्षय: कालो धाताहं विश्वतोमुख: || 33||

 

मृत्यु: सर्वहरश्चाहमुद्भवश्च भविष्यताम् |

कीर्ति: श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृति: क्षमा || 34||

 

बृहत्साम तथा साम्नां गायत्री छन्दसामहम् |

मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकर: || 35||

 

द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् |

जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् || 36||

 

वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जय: |

मुनीनामप्यहं व्यास: कवीनामुशना कवि: || 37||

 

दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् |

मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् || 38||

 

यच्चापि सर्वभूतानां बीजं तदहमर्जुन |

तदस्ति विना यत्स्यान्मया भूतं चराचरम् || 39||

 

नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप |

एष तूद्देशत: प्रोक्तो विभूतेर्विस्तरो मया || 40||

 

यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा |

तत्देवावगच्छ त्वं मम तेजोंऽशसम्भवम् || 41||

 

अथवा बहुनैतेन किं ज्ञातेन तवार्जुन |

विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् || 42||