Bhagavad Gita Sanskrit Shlokas Chapter 2 : Contents of the Gita Summarised / Sankhya Yoga
Chapter 2
सञ्जय उवाच |
तं तथा
कृपयाविष्टमश्रुपूर्णाकुलेक्षणम्
|
विषीदन्तमिदं वाक्यमुवाच मधुसूदन: || 1||
श्रीभगवानुवाच |
कुतस्त्वा कश्मलमिदं विषमे
समुपस्थितम् |
अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन
|| 2||
क्लैब्यं मा स्म
गम: पार्थ नैतत्त्वय्युपपद्यते
|
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ
परन्तप || 3||
अर्जुन उवाच |
कथं भीष्ममहं
सङ्ख्ये द्रोणं च मधुसूदन
|
इषुभि: प्रतियोत्स्यामि पूजार्हावरिसूदन
|| 4||
गुरूनहत्वा हि महानुभावान्
श्रेयो भोक्तुं भैक्ष्यमपीह
लोके |
हत्वार्थकामांस्तु गुरूनिहैव
भुञ्जीय भोगान् रुधिरप्रदिग्धान्
|| 5||
न चैतद्विद्म:
कतरन्नो गरीयो
यद्वा जयेम यदि
वा नो जयेयु:
|
यानेव हत्वा न
जिजीविषाम
स्तेऽवस्थिता: प्रमुखे धार्तराष्ट्रा: || 6||
कार्पण्यदोषोपहतस्वभाव:
पृच्छामि त्वां धर्मसम्मूढचेता:
|
यच्छ्रेय: स्यान्निश्चितं ब्रूहि
तन्मे
शिष्यस्तेऽहं शाधि मां
त्वां प्रपन्नम् || 7||
न हि
प्रपश्यामि ममापनुद्याद्
यच्छोकमुच्छोषणमिन्द्रियाणाम् |
अवाप्य भूमावसपत्नमृद्धं
राज्यं सुराणामपि चाधिपत्यम्
|| 8||
सञ्जय उवाच |
एवमुक्त्वा हृषीकेशं गुडाकेश:
परन्तप |
न योत्स्य
इति गोविन्दमुक्त्वा तूष्णीं
बभूव ह || 9||
तमुवाच हृषीकेश: प्रहसन्निव
भारत |
सेनयोरुभयोर्मध्ये विषीदन्तमिदं वच: || 10||
श्रीभगवानुवाच |
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे |
गतासूनगतासूंश्च नानुशोचन्ति पण्डिता: || 11||
न त्वेवाहं
जातु नासं न
त्वं नेमे जनाधिपा
|
न चैव
न भविष्याम: सर्वे
वयमत: परम् || 12||
देहिनोऽस्मिन्यथा देहे कौमारं
यौवनं जरा |
तथा देहान्तरप्राप्तिर्धीरस्तत्र
न मुह्यति || 13||
मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदु: खदा:
|
आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत || 14||
यं हि
न व्यथयन्त्येते पुरुषं
पुरुषर्षभ |
समदु:खसुखं
धीरं सोऽमृतत्वाय कल्पते
|| 15||
नासतो विद्यते भावो
नाभावो विद्यते सत: |
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभि: || 16||
अविनाशि तु तद्विद्धि
येन सर्वमिदं ततम्
|
विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति
|| 17||
अन्तवन्त इमे देहा
नित्यस्योक्ता: शरीरिण: |
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत || 18||
य एनं
वेत्ति हन्तारं यश्चैनं मन्यते
हतम् |
उभौ तौ
न विजानीतो नायं
हन्ति न हन्यते
|| 19||
न जायते
म्रियते वा कदाचि
नायं भूत्वा
भविता वा न
भूय: |
अजो नित्य:
शाश्वतोऽयं पुराणो
न हन्यते
हन्यमाने शरीरे || 20||
वेदाविनाशिनं नित्यं य एनमजमव्ययम्
|
कथं स
पुरुष: पार्थ कं घातयति
हन्ति कम् || 21||
वासांसि जीर्णानि यथा
विहाय
नवानि गृह्णाति नरोऽपराणि
|
तथा शरीराणि
विहाय जीर्णा
न्यन्यानि संयाति नवानि
देही || 22||
नैनं छिन्दन्ति
शस्त्राणि नैनं दहति
पावक: |
न चैनं
क्लेदयन्त्यापो न शोषयति
मारुत: || 23||
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य
एव च |
नित्य: सर्वगत: स्थाणुरचलोऽयं
सनातन: || 24||
अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते
|
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि
|| 25||
अथ चैनं
नित्यजातं नित्यं वा मन्यसे
मृतम् |
तथापि त्वं महाबाहो
नैवं शोचितुमर्हसि || 26||
जातस्य हि ध्रुवो
मृत्युर्ध्रुवं जन्म मृतस्य
च |
तस्मादपरिहार्येऽर्थे न त्वं
शोचितुमर्हसि || 27||
अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत
|
अव्यक्तनिधनान्येव तत्र का
परिदेवना || 28||
आश्चर्यवत्पश्यति कश्चिदेन
माश्चर्यवद्वदति तथैव चान्य:
|
आश्चर्यवच्चैनमन्य: शृ्णोति
श्रुत्वाप्येनं वेद न
चैव कश्चित् || 29||
देही नित्यमवध्योऽयं
देहे सर्वस्य भारत
|
तस्मात्सर्वाणि भूतानि न त्वं
शोचितुमर्हसि || 30||
स्वधर्ममपि चावेक्ष्य न
विकम्पितुमर्हसि |
धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते
|| 31||
यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम्
|
सुखिन: क्षत्रिया: पार्थ
लभन्ते युद्धमीदृशम् || 32||
अथ चेतत्त्वमिमं
धर्म्यं संग्रामं न करिष्यसि
|
तत: स्वधर्मं
कीर्तिं च हित्वा
पापमवाप्स्यसि || 33||
अकीर्तिं चापि भूतानि
कथयिष्यन्ति तेऽव्ययाम् |
सम्भावितस्य चाकीर्ति
र्मरणादतिरिच्यते || 34||
भयाद्रणादुपरतं मंस्यन्ते त्वां महारथा:
|
येषां च त्वं
बहुमतो भूत्वा यास्यसि लाघवम्
|| 35||
अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिता: |
निन्दन्तस्तव सामर्थ्यं ततो दु:खतरं नु
किम् || 36||
हतो वा
प्राप्स्यसि स्वर्गं जित्वा वा
भोक्ष्यसे महीम् |
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चय:
|| 37||
सुखदु:खे समे
कृत्वा लाभालाभौ जयाजयौ |
ततो युद्धाय
युज्यस्व नैवं पापमवाप्स्यसि
|| 38||
एषा तेऽभिहिता
साङ्ख्ये
बुद्धिर्योगे त्विमां शृणु |
बुद्ध्या युक्तो यया
पार्थ
कर्मबन्धं प्रहास्यसि || 39||
नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते
|
स्वल्पमप्यस्य धर्मस्य त्रायते महतो
भयात् || 40||
व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन |
बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम्
|| 41||
यामिमां पुष्पितां वाचं
प्रवदन्त्यविपश्चित: |
वेदवादरता: पार्थ नान्यदस्तीति
वादिन: || 42||
कामात्मान: स्वर्गपरा जन्मकर्मफलप्रदाम्
|
क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति || 43||
भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् |
व्यवसायात्मिका बुद्धि: समाधौ न
विधीयते || 44||
त्रैगुण्यविषया वेदा निस्त्रैगुण्यो
भवार्जुन | निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् || 45||
यावानर्थ उदपाने सर्वत:
सम्प्लुतोदके |
तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानत:
|| 46||
कर्मण्येवाधिकारस्ते मा फलेषु
कदाचन |
मा कर्मफलहेतुर्भूर्मा
ते सङ्गोऽस्त्वकर्मणि || 47 ||
योगस्थ: कुरु कर्माणि
सङ्गं त्यक्त्वा धनञ्जय
|
सिद्ध्यसिद्ध्यो: समो भूत्वा
समत्वं योग उच्यते
|| 48||
दूरेण ह्यवरं कर्म
बुद्धियोगाद्धनञ्जय |
बुद्धौ शरणमन्विच्छ कृपणा:
फलहेतव: || 49||
बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते
|
तस्माद्योगाय युज्यस्व योग: कर्मसु
कौशलम् || 50||
कर्मजं बुद्धियुक्ता हि
फलं त्यक्त्वा मनीषिण:
|
जन्मबन्धविनिर्मुक्ता: पदं गच्छन्त्यनामयम्
|| 51||
यदा ते
मोहकलिलं बुद्धिर्व्यतितरिष्यति |
तदा गन्तासि
निर्वेदं श्रोतव्यस्य श्रुतस्य च
|| 52||
श्रुतिविप्रतिपन्ना ते यदा
स्थास्यति निश्चला |
समाधावचला बुद्धिस्तदा योगमवाप्स्यसि
|| 53||
अर्जुन उवाच |
स्थितप्रज्ञस्य का भाषा
समाधिस्थस्य केशव |
स्थितधी: किं प्रभाषेत
किमासीत व्रजेत किम् || 54||
श्रीभगवानुवाच |
प्रजहाति यदा कामान्सर्वान्पार्थ
मनोगतान् |
आत्मन्येवात्मना तुष्ट: स्थितप्रज्ञस्तदोच्यते || 55||
दु:खेष्वनुद्विग्नमना:
सुखेषु विगतस्पृह: |
वीतरागभयक्रोध: स्थितधीर्मुनिरुच्यते || 56||
य: सर्वत्रानभिस्नेहस्तत्तत्प्राप्य
शुभाशुभम् |
नाभिनन्दति न द्वेष्टि
तस्य प्रज्ञा प्रतिष्ठिता
|| 57||
यदा संहरते
चायं कूर्मोऽङ्गानीव सर्वश:
|
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता || 58||
विषया विनिवर्तन्ते निराहारस्य
देहिन: |
रसवर्जं रसोऽप्यस्य परं
दृष्ट्वा निवर्तते || 59||
यततो ह्यपि
कौन्तेय पुरुषस्य विपश्चित: |
इन्द्रियाणि प्रमाथीनि हरन्ति
प्रसभं मन: || 60||
तानि सर्वाणि
संयम्य युक्त आसीत मत्पर:
|
वशे हि
यस्येन्द्रियाणि तस्य प्रज्ञा
प्रतिष्ठिता || 61||
ध्यायतो विषयान्पुंस: सङ्गस्तेषूपजायते
|
सङ्गात्सञ्जायते काम: कामात्क्रोधोऽभिजायते
|| 62||
क्रोधाद्भवति सम्मोह: सम्मोहात्स्मृतिविभ्रम: |
स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति || 63||
रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् |
आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति || 64||
प्रसादे सर्वदु:खानां
हानिरस्योपजायते |
प्रसन्नचेतसो ह्याशु बुद्धि: पर्यवतिष्ठते
|| 65||
नास्ति बुद्धिरयुक्तस्य न
चायुक्तस्य भावना |
न चाभावयत:
शान्तिरशान्तस्य कुत: सुखम्
|| 66||
इन्द्रियाणां हि चरतां
यन्मनोऽनुविधीयते |
तदस्य हरति प्रज्ञां
वायुर्नावमिवाम्भसि || 67||
तस्माद्यस्य महाबाहो निगृहीतानि
सर्वश: |
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता || 68||
या निशा
सर्वभूतानां तस्यां जागर्ति संयमी
|
यस्यां जाग्रति भूतानि
सा निशा पश्यतो
मुने: || 69||
आपूर्यमाणमचलप्रतिष्ठं
समुद्रमाप: प्रविशन्ति यद्वत्
|
तद्वत्कामा यं प्रविशन्ति
सर्वे
स शान्तिमाप्नोति
न कामकामी || 70||
विहाय कामान्य: सर्वान्पुमांश्चरति
नि:स्पृह: |
निर्ममो निरहङ्कार: स
शान्तिमधिगच्छति || 71||
एषा ब्राह्मी
स्थिति: पार्थ नैनां प्राप्य
विमुह्यति |
स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति || 72||