Bhagavad Gita Sanskrit Verses Chapter 5 : Karm Yog - Action in Krishna Consciousness / Krishna-bhavna-mrit Karm
Chapter 5
अर्जुन उवाच |
संन्यासं कर्मणां कृष्ण
पुनर्योगं च शंससि
|
यच्छ्रेय एतयोरेकं तन्मे
ब्रूहि सुनिश्चितम् || 1||
श्रीभगवानुवाच |
संन्यास: कर्मयोगश्च नि:श्रेयसकरावुभौ |
तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते
|| 2||
ज्ञेय: स नित्यसंन्यासी
यो न द्वेष्टि
न काङ् क्षति
|
निर्द्वन्द्वो हि महाबाहो
सुखं बन्धात्प्रमुच्यते || 3||
साङ्ख्ययोगौ पृथग्बाला: प्रवदन्ति
न पण्डिता: |
एकमप्यास्थित: सम्यगुभयोर्विन्दते फलम् || 4||
यत्साङ्ख्यै: प्राप्यते स्थानं तद्योगैरपि
गम्यते |
एकं साङ्ख्यं
च योगं च
य: पश्यति स
पश्यति || 5||
संन्यासस्तु महाबाहो दु:खमाप्तुमयोगत: |
योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति
|| 6||
योगयुक्तो विशुद्धात्मा विजितात्मा
जितेन्द्रिय: |
सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते
|| 7||
नैव किञ्चित्करोमीति
युक्तो मन्येत तत्त्ववित् |
पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन्
|| 8||
प्रलपन्विसृजन्गृह्ण्न्नुन्मिषन्निमिषन्नपि
|
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन्
|| 9||
ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा
करोति य: |
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा || 10||
कायेन मनसा बुद्ध्या
केवलैरिन्द्रियैरपि |
योगिन: कर्म कुर्वन्ति
सङ्गं त्यक्त्वात्मशुद्धये || 11||
युक्त: कर्मफलं त्यक्त्वा
शान्तिमाप्नोति नैष्ठिकीम् |
अयुक्त: कामकारेण फले
सक्तो निबध्यते || 12||
सर्वकर्माणि मनसा संन्यस्यास्ते
सुखं वशी |
नवद्वारे पुरे देही
नैव कुर्वन्न कारयन्
|| 13||
न कर्तृत्वं
न कर्माणि लोकस्य
सृजति प्रभु: |
न कर्मफलसंयोगं
स्वभावस्तु प्रवर्तते || 14||
नादत्ते कस्यचित्पापं न
चैव सुकृतं विभु:
|
अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति
जन्तव: || 15||
ज्ञानेन तु तदज्ञानं
येषां नाशितमात्मन: |
तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् || 16||
तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणा:
|
गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषा: || 17||
विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि
|
शुनि चैव
श्वपाके च पण्डिता:
समदर्शिन: || 18||
इहैव तैर्जित:
सर्गो येषां साम्ये
स्थितं मन: |
निर्दोषं हि समं
ब्रह्म तस्माद् ब्रह्मणि ते
स्थिता: || 19||
न प्रहृष्येत्प्रियं
प्राप्य नोद्विजेत्प्राप्य चाप्रियम् |
स्थिरबुद्धिरसम्मूढो ब्रह्मविद् ब्रह्मणि स्थित:
|| 20||
बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् |
स ब्रह्मयोगयुक्तात्मा
सुखमक्षयमश्नुते || 21||
ये हि
संस्पर्शजा भोगा दु:खयोनय एव ते
|
आद्यन्तवन्त: कौन्तेय न तेषु
रमते बुध: || 22||
शक्नोतीहैव य: सोढुं
प्राक्शरीरविमोक्षणात् |
कामक्रोधोद्भवं वेगं स
युक्त: स सुखी
नर: || 23||
योऽन्त:सुखोऽन्तरारामस्तथान्तज्र्योतिरेव य: ।
स योगी
ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ।। 24।।
लभन्ते ब्रह्मनिर्वाणमृषय: क्षीणकल्मषा:
|
छिन्नद्वैधा यतात्मान: सर्वभूतहिते
रता: || 25||
कामक्रोधवियुक्तानां यतीनां यतचेतसाम् |
अभितो ब्रह्मनिर्वाणं वर्तते
विदितात्मनाम् || 26||
स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवो: |
प्राणापानौ समौ कृत्वा
नासाभ्यन्तरचारिणौ || 27||
यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायण:
|
विगतेच्छाभयक्रोधो य: सदा
मुक्त एव स:
|| 28||
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम्
|
सुहृदं सर्वभूतानां ज्ञात्वा
मां शान्तिमृच्छति || 29||