Bhagavad Gita Sanskrit Verses Chapter 7 : Knowledge of the Absolute / Bhagvad Gyan

 Bhagavad Gita Sanskrit Verses Chapter 7 : Knowledge of the Absolute / Bhagvad Gyan

Chapter 7

श्रीभगवानुवाच |

मय्यासक्तमना: पार्थ योगं युञ्जन्मदाश्रय: |

असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु || 1||

 

ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषत: |

यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते || 2||

 

मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये |

यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वत: || 3||

 

भूमिरापोऽनलो वायु: खं मनो बुद्धिरेव |

अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा || 4||

 

अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् |

जीवभूतां महाबाहो ययेदं धार्यते जगत् || 5||

 

एतद्योनीनि भूतानि सर्वाणीत्युपधारय |

अहं कृत्स्नस्य जगत: प्रभव: प्रलयस्तथा || 6||

 

मत्त: परतरं नान्यत्किञ्चिदस्ति धनञ्जय |

मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव || 7||

 

रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययो: |

प्रणव: सर्ववेदेषु शब्द: खे पौरुषं नृषु || 8||

 

पुण्यो गन्ध: पृथिव्यां तेजश्चास्मि विभावसौ |

जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु || 9||

 

बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् |

बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् || 10||

 

बलं बलवतां चाहं कामरागविवर्जितम् |

धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ || 11||

 

ये चैव सात्त्विका भावा राजसास्तामसाश्च ये |

मत्त एवेति तान्विद्धि त्वहं तेषु ते मयि || 12||

 

त्रिभिर्गुणमयैर्भावैरेभि: सर्वमिदं जगत् |

मोहितं नाभिजानाति मामेभ्य: परमव्ययम् || 13||

 

दैवी ह्येषा गुणमयी मम माया दुरत्यया |

मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते || 14||

 

मां दुष्कृतिनो मूढा: प्रपद्यन्ते नराधमा: |

माययापहृतज्ञाना आसुरं भावमाश्रिता: || 15||

 

चतुर्विधा भजन्ते मां जना: सुकृतिनोऽर्जुन |

आर्तो जिज्ञासुरर्थार्थी ज्ञानी भरतर्षभ || 16||

 

तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते |

प्रियो हि ज्ञानिनोऽत्यर्थमहं मम प्रिय: || 17||

 

उदारा: सर्व एवैते ज्ञानी त्वात्मैव मे मतम् |

आस्थित: हि युक्तात्मा मामेवानुत्तमां गतिम् || 18||

 

बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते |

वासुदेव: सर्वमिति महात्मा सुदुर्लभ: || 19||

 

कामैस्तैस्तैर्हृतज्ञाना: प्रपद्यन्तेऽन्यदेवता: |

तं तं नियममास्थाय प्रकृत्या नियता: स्वया || 20||

 

यो यो यां यां तनुं भक्त: श्रद्धयार्चितुमिच्छति |

तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् || 21||

 

तया श्रद्धया युक्तस्तस्याराधनमीहते |

लभते तत: कामान्मयैव विहितान्हि तान् || 22||

 

अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् |

देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि || 23||

 

अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धय: |

परं भावमजानन्तो ममाव्ययमनुत्तमम् || 24||

 

नाहं प्रकाश: सर्वस्य योगमायासमावृत: |

मूढोऽयं नाभिजानाति लोको मामजमव्ययम् || 25||

 

वेदाहं समतीतानि वर्तमानानि चार्जुन |

भविष्याणि भूतानि मां तु वेद कश्चन || 26||

 

इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत |

सर्वभूतानि सम्मोहं सर्गे यान्ति परन्तप || 27||

 

येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् |

ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रता: || 28||

 

जरामरणमोक्षाय मामाश्रित्य यतन्ति ये |

ते ब्रह्म तद्विदु: कृत्स्नमध्यात्मं कर्म चाखिलम् || 29||

 

साधिभूताधिदैवं मां साधियज्ञं ये विदु: |

प्रयाणकालेऽपि मां ते विदुर्युक्तचेतस: || 30||