Bhagavad Gita Sanskrit Shlokas Chapter 13 : Nature, The Enjoyer and Consciousness / Prakriti, Purush & Chetna
Chapter 13
श्रीभगवानुवाच |
इदं शरीरं
कौन्तेय क्षेत्रमित्यभिधीयते |
एतद्यो वेत्ति तं
प्राहु: क्षेत्रज्ञ इति तद्विद:
|| 1||
क्षेत्रज्ञं चापि मां
विद्धि सर्वक्षेत्रेषु भारत |
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम
|| 2||
तत्क्षेत्रं यच्च यादृक्च
यद्विकारि यतश्च यत् |
स च
यो यत्प्रभावश्च तत्समासेन
मे शृणु || 3||
ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधै:
पृथक् |
ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितै: || 4||
महाभूतान्यङ्ककारो बुद्धिरव्यक्त मेव च
|
इन्द्रियाणि दशैकं च
पञ्च चेन्द्रियगोचरा: || 5 ||
इच्छा द्वेष: सुखं
दु:खं सङ्घातश्चेतना
धृति: |
एतत्क्षेत्रं समासेन सविकारमुदाहृतम् || 6||
अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् |
आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रह:
|| 7||
इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च
|
जन्ममृत्युजराव्याधिदु:खदोषानुदर्शनम् || 8||
असक्तिरनभिष्वङ्ग: पुत्रदारगृहादिषु |
नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु
|| 9||
मयि चानन्ययोगेन
भक्तिरव्यभिचारिणी |
विविक्तदेशसेवित्वमरतिर्जनसंसदि ||
10||
अध्यात्मज्ञाननित्यत्वं तत्वज्ञानार्थदर्शनम् |
एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा || 11||
ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्रुते
|
अनादिमत्परं ब्रह्म न
सत्तन्नासदुच्यते || 12||
सर्वत: पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम्
|
सर्वत: श्रुतिमल्लोके सर्वमावृत्य
तिष्ठति || 13||
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् |
असक्तं सर्वभृच्चैव निर्गुणं
गुणभोक्तृ च || 14||
बहिरन्तश्च भूतानामचरं चरमेव
च |
सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च
तत् || 15||
अविभक्तं च भूतेषु
विभक्तमिव च स्थितम्
|
भूतभर्तृ च तज्ज्ञेयं
ग्रसिष्णु प्रभविष्णु च || 16||
ज्योतिषामपि तज्ज्योतिस्तमस: परमुच्यते
|
ज्ञानं ज्ञेयं ज्ञानगम्यं
हृदि सर्वस्य विष्ठितम्
|| 17||
इति क्षेत्रं
तथा ज्ञानं ज्ञेयं
चोक्तं समासत: |
मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते
|| 18||
प्रकृतिं पुरुषं चैव
विद्ध्यनादी उभावपि |
विकारांश्च गुणांश्चैव विद्धि
प्रकृतिसम्भवान् || 19||
कार्यकारणकर्तृत्वे हेतु: प्रकृतिरुच्यते |
पुरुष: सुखदु:खानां
भोक्तृत्वे हेतुरुच्यते || 20||
पुरुष: प्रकृतिस्थो हि
भुङक्ते प्रकृतिजान्गुणान् |
कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु
|| 21||
उपद्रष्टानुमन्ता च भर्ता
भोक्ता महेश्वर: |
परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुष:
पर: || 22||
य एवं
वेत्ति पुरुषं प्रकृतिं च
गुणै: सह |
सर्वथा वर्तमानोऽपि न
स भूयोऽभिजायते || 23||
ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना |
अन्ये साङ् ख्येन
योगेन कर्मयोगेन चापरे
|| 24||
अन्ये त्वेवमजानन्त: श्रुत्वान्येभ्य
उपासते |
तेऽपि चातितरन्त्येव मृत्युं
श्रुतिपरायणा: || 25||
यावत्सञ्जायते किञ्चित्सत्वं स्थावरजङ्गमम् |
क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ || 26||
समं सर्वेषु
भूतेषु तिष्ठन्तं परमेश्वरम् |
विनश्यत्स्वविनश्यन्तं य: पश्यति
स पश्यति || 27||
समं पश्यन्हि
सर्वत्र समवस्थितमीश्वरम् |
न हिनस्त्यात्मनात्मानं
ततो याति परां
गतिम् || 28||
प्रकृत्यैव च कर्माणि
क्रियमाणानि सर्वश: |
य: पश्यति
तथात्मानमकर्तारं स पश्यति
|| 29||
यदा भूतपृथग्भावमेकस्थमनुपश्यति
|
तत एव
च विस्तारं ब्रह्म
सम्पद्यते तदा || 30||
अनादित्वान्निर्गुणत्वात्परमात्मायमव्यय:
|
शरीरस्थोऽपि कौन्तेय न
करोति न लिप्यते
|| 31||
यथा सर्वगतं
सौक्ष्म्यादाकाशं नोपलिप्यते |
सर्वत्रावस्थितो देहे तथात्मा
नोपलिप्यते || 32||
यथा प्रकाशयत्येक:
कृत्स्नं लोकमिमं रवि: |
क्षेत्रं क्षेत्री तथा
कृत्स्नं प्रकाशयति भारत || 33||
क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा |
भूतप्रकृतिमोक्षं च ये
विदुर्यान्ति ते परम्
|| 34||