Bhagavad Gita Sanskrit Shlokas Chapter 11 : The Universal Form

 Bhagavad Gita Sanskrit Shlokas Chapter 11: The Universal Form / Virat Roop


Chapter 11 

अर्जुन उवाच |

मदनुग्रहाय परमं गुह्यमध्यात्मसञ्ज्ञितम् |

यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम || 1||

 

भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया |

त्वत्त: कमलपत्राक्ष माहात्म्यमपि चाव्ययम् || 2||

 

एवमेतद्यथात्थ त्वमात्मानं परमेश्वर |

द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम || 3||

 

मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो |

योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् || 4||

 

श्रीभगवानुवाच |

पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रश: |

नानाविधानि दिव्यानि नानावर्णाकृतीनि || 5||

 

पश्यादित्यान्वसून् रुद्रानश्विनौ मरुतस्तथा |

बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत || 6||

 

इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् |

मम देहे गुडाकेश यच्चान्यद्द्रष्टुमिच्छसि || 7||

 

तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा |

दिव्यं ददामि ते चक्षु: पश्य मे योगमैश्वरम् || 8||

 

सञ्जय उवाच |

एवमुक्त्वा ततो राजन्महायोगेश्वरो हरि: |

दर्शयामास पार्थाय परमं रूपमैश्वरम् || 9||

 

अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् |

अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् || 10||

 

दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् |

सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् || 11||

 

दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता |

यदि भा: सदृशी सा स्याद्भासस्तस्य महात्मन: || 12||

 

तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा |

अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा || 13||

 

तत: विस्मयाविष्टो हृष्टरोमा धनञ्जय: |

प्रणम्य शिरसा देवं कृताञ्जलिरभाषत || 14||

 

अर्जुन उवाच |

पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसङ्घान् |

ब्रह्माणमीशं कमलासनस्थ- मृषींश्च सर्वानुरगांश्च दिव्यान् || 15||

 

अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरूपम् |

नान्तं मध्यं पुनस्तवादिं पश्यामि विश्वेश्वर विश्वरूप || 16||

 

किरीटिनं गदिनं चक्रिणं तेजोराशिं सर्वतो दीप्तिमन्तम् |

पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद् दीप्तानलार्कद्युतिमप्रमेयम् || 17||

 

त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम् |

त्वमव्यय: शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे || 18||

 

अनादिमध्यान्तमनन्तवीर्यमनन्तबाहुं शशिसूर्यनेत्रम् |

पश्यामि त्वां दीप्तहुताशवक्त्रंस्वतेजसा विश्वमिदं तपन्तम् || 19||

 

द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वा: |

दृष्ट्वाद्भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन् || 20||

 

अमी हि त्वां सुरसङ्घा विशन्ति केचिद्भीता: प्राञ्जलयो गृणन्ति |

स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घा: स्तुवन्ति त्वां स्तुतिभि: पुष्कलाभि: || 21||

 

रुद्रादित्या वसवो ये साध्या विश्वेऽश्विनौ मरुतश्चोष्मपाश्च |

गन्धर्वयक्षासुरसिद्धसङ्घा वीक्षन्ते त्वां विस्मिताश्चैव सर्वे || 22||

 

रूपं महत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम् |

बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोका: प्रव्यथितास्तथाहम् || 23||

 

नभ:स्पृशं दीप्तमनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम् |

दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृतिं विन्दामि शमं विष्णो || 24||

 

दंष्ट्राकरालानि ते मुखानि दृष्ट्वैव कालानलसन्निभानि |

दिशो जाने लभे शर्म प्रसीद देवेश जगन्निवास || 25||

 

अमी त्वां धृतराष्ट्रस्य पुत्रा: सर्वे सहैवावनिपालसङ्घै: |

भीष्मो द्रोण: सूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यै: || 26||

 

वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि |

केचिद्विलग्ना दशनान्तरेषु सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गै: || 27||

 

यथा नदीनां बहवोऽम्बुवेगा: समुद्रमेवाभिमुखा द्रवन्ति |

तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति || 28||

 

यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगा: |

तथैव नाशाय विशन्ति लोका- स्तवापि वक्त्राणि समृद्धवेगा: || 29||

 

लेलिह्यसे ग्रसमान: समन्ताल्लोकान्समग्रान्वदनैर्ज्वलद्भि: |

तेजोभिरापूर्य जगत्समग्रं भासस्तवोग्रा: प्रतपन्ति विष्णो || 30||

 

आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद |

विज्ञातुमिच्छामि भवन्तमाद्यं हि प्रजानामि तव प्रवृत्तिम् || 31||

 

श्रीभगवानुवाच |

कालोऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान्समाहर्तुमिह प्रवृत्त: |

ऋतेऽपि त्वां भविष्यन्ति सर्वे येऽवस्थिता: प्रत्यनीकेषु योधा: || 32||

 

तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून्भुङ् क्ष्व राज्यं समृद्धम् |

मयैवैते निहता: पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् || 33||

 

द्रोणं भीष्मं जयद्रथं कर्णं तथान्यानपि योधवीरान् |

मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान् || 34||

 

सञ्जय उवाच |

एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमान: किरीटी |

नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीत: प्रणम्य || 35||

 

अर्जुन उवाच |

स्थाने हृषीकेश तव प्रकीर्त्या

जगत्प्रहृष्यत्यनुरज्यते |

रक्षांसि भीतानि दिशो द्रवन्ति

सर्वे नमस्यन्ति सिद्धसङ्घा: || 36||

 

कस्माच्च ते नमेरन्महात्मन्

गरीयसे ब्रह्मणोऽप्यादिकर्त्रे |

अनन्त देवेश जगन्निवास

त्वमक्षरं सदसतत्परं यत् || 37||

 

त्वमादिदेव: पुरुष: पुराणस्-

त्वमस्य विश्वस्य परं निधानम् |

वेत्तासि वेद्यं परं धाम

त्वया ततं विश्वमनन्तरूप || 38||

 

वायुर्यमोऽग्निर्वरुण: शशाङ्क:

प्रजापतिस्त्वं प्रपितामहश्च |

नमो नमस्तेऽस्तु सहस्रकृत्व:

पुनश्च भूयोऽपि नमो नमस्ते || 39||

 

नम: पुरस्तादथ पृष्ठतस्ते

नमोऽस्तु ते सर्वत एव सर्व |

अनन्तवीर्यामितविक्रमस्त्वं

सर्वं समाप्नोषि ततोऽसि सर्व: || 40||

 

सखेति मत्वा प्रसभं यदुक्तं

हे कृष्ण हे यादव हे सखेति |

अजानता महिमानं तवेदं

मया प्रमादात्प्रणयेन वापि || 41||

 

यच्चावहासार्थमसत्कृतोऽसि

विहारशय्यासनभोजनेषु |

एकोऽथवाप्यच्युत तत्समक्षं

तत्क्षामये त्वामहमप्रमेयम् || 42||

 

पितासि लोकस्य चराचरस्य

त्वमस्य पूज्यश्च गुरुर्गरीयान् |

त्वत्समोऽस्त्यभ्यधिक: कुतोऽन्यो

लोकत्रयेऽप्यप्रतिमप्रभाव || 43||

 

तस्मात्प्रणम्य प्रणिधाय कायं

प्रसादये त्वामहमीशमीड्यम् |

पितेव पुत्रस्य सखेव सख्यु:

प्रिय: प्रियायार्हसि देव सोढुम् || 44||

 

अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा

भयेन प्रव्यथितं मनो मे |

तदेव मे दर्शय देवरूपं

प्रसीद देवेश जगन्निवास || 45||

 

किरीटिनं गदिनं चक्रहस्त-

मिच्छामि त्वां द्रष्टुमहं तथैव |

तेनैव रूपेण चतुर्भुजेन

सहस्रबाहो भव विश्वमूर्ते || 46||

 

श्रीभगवानुवाच |

मया प्रसन्नेन तवार्जुनेदं

रूपं परं दर्शितमात्मयोगात् |

तेजोमयं विश्वमनन्तमाद्यं

यन्मे त्वदन्येन दृष्टपूर्वम् || 47||

 

वेदयज्ञाध्ययनैर्न दानै-

र्न क्रियाभिर्न तपोभिरुग्रै: |

एवंरूप: शक्य अहं नृलोके

द्रष्टुं त्वदन्येन कुरुप्रवीर || 48||

 

मा ते व्यथा मा विमूढभावो

दृष्ट्वा रूपं घोरमीदृङ्ममेदम् |

व्यपेतभी: प्रीतमना: पुनस्त्वं

तदेव मे रूपमिदं प्रपश्य || 49||

 

सञ्जय उवाच |

इत्यर्जुनं वासुदेवस्तथोक्त्वा

स्वकं रूपं दर्शयामास भूय: |

आश्वासयामास भीतमेनं

भूत्वा पुन: सौम्यवपुर्महात्मा || 50||

 

अर्जुन उवाच |

दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन |

इदानीमस्मि संवृत्त: सचेता: प्रकृतिं गत: || 51||

 

श्रीभगवानुवाच |

सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम |

देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिण: || 52||

 

नाहं वेदैर्न तपसा दानेन चेज्यया |

शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा || 53||

 

भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन |

ज्ञातुं द्रष्टुं तत्त्वेन प्रवेष्टुं परन्तप || 54||

 

मत्कर्मकृन्मत्परमो मद्भक्त: सङ्गवर्जित: |

निर्वैर: सर्वभूतेषु : मामेति पाण्डव || 55||