Bhagavad Gita Sanskrit Verses Chapter 4: Transcendental Knowledge / Divya Gyan
Chapter 4
श्रीभगवानुवाच |
इमं विवस्वते
योगं प्रोक्तवानहमव्ययम् |
विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् || 1||
एवं परम्पराप्राप्तमिमं
राजर्षयो विदु: |
स कालेनेह
महता योगो नष्ट:
परन्तप || 2||
स एवायं
मया तेऽद्य योग:
प्रोक्त: पुरातन: |
भक्तोऽसि मे सखा
चेति रहस्यं ह्येतदुत्तमम्
|| 3||
अर्जुन उवाच |
अपरं भवतो
जन्म परं जन्म
विवस्वत: |
कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति || 4||
श्रीभगवानुवाच |
बहूनि मे व्यतीतानि
जन्मानि तव चार्जुन
|
तान्यहं वेद सर्वाणि
न त्वं वेत्थ
परन्तप || 5||
अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि
सन् |
प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया
|| 6||
यदा यदा
हि धर्मस्य ग्लानिर्भवति
भारत |
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् || 7||
परित्राणाय साधूनां विनाशाय
च दुष्कृताम् |
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे
|| 8||
जन्म कर्म
च मे दिव्यमेवं
यो वेत्ति तत्त्वत:
|
त्यक्त्वा देहं पुनर्जन्म
नैति मामेति सोऽर्जुन
|| 9||
वीतरागभयक्रोधा मन्मया मामुपाश्रिता: |
बहवो ज्ञानतपसा
पूता मद्भावमागता: || 10||
ये यथा
मां प्रपद्यन्ते तांस्तथैव
भजाम्यहम् |
मम वर्त्मानुवर्तन्ते
मनुष्या: पार्थ सर्वश: || 11||
काङ् क्षन्त:
कर्मणां सिद्धिं यजन्त इह
देवता: |
क्षिप्रं हि मानुषे
लोके सिद्धिर्भवति कर्मजा
|| 12||
चातुर्वर्ण्यं मया सृष्टं
गुणकर्मविभागश: |
तस्य कर्तारमपि
मां विद्ध्यकर्तारमव्ययम् || 13||
न मां
कर्माणि लिम्पन्ति न मे
कर्मफले स्पृहा |
इति मां
योऽभिजानाति कर्मभिर्न स बध्यते
|| 14||
एवं ज्ञात्वा
कृतं कर्म पूर्वैरपि
मुमुक्षुभि: |
कुरु कर्मैव
तस्मात्त्वं पूर्वै: पूर्वतरं कृतम्
|| 15||
किं कर्म
किमकर्मेति कवयोऽप्यत्र मोहिता: |
तत्ते कर्म प्रवक्ष्यामि
यज्ज्ञात्वा मोक्ष्यसेऽशुभात् || 16||
कर्मणो ह्यपि बोद्धव्यं
बोद्धव्यं च विकर्मण:
|
अकर्मणश्च बोद्धव्यं गहना
कर्मणो गति: || 17||
कर्मण्यकर्म य: पश्येदकर्मणि
च कर्म य:
|
स बुद्धिमान्मनुष्येषु
स युक्त: कृत्स्नकर्मकृत्
|| 18||
यस्य सर्वे
समारम्भा: कामसङ्कल्पवर्जिता: |
ज्ञानाग्निदग्धकर्माणं तमाहु: पण्डितं बुधा:
|| 19||
त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो
निराश्रय: |
कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति
स: || 20||
निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रह: |
शारीरं केवलं कर्म
कुर्वन्नाप्नोति किल्बिषम् || 21||
यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सर: |
सम: सिद्धावसिद्धौ
च कृत्वापि न
निबध्यते || 22||
गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतस:
|
यज्ञायाचरत: कर्म समग्रं
प्रविलीयते || 23||
ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा
हुतम् |
ब्रह्मैव तेन गन्तव्यं
ब्रह्मकर्मसमाधिना || 24||
दैवमेवापरे यज्ञं योगिन:
पर्युपासते |
ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति || 25||
श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति |
शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति || 26||
सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे |
आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते || 27||
द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे |
स्वाध्यायज्ञानयज्ञाश्च यतय: संशितव्रता:
|| 28||
अपाने जुह्वति प्राणं
प्राणेऽपानं तथापरे |
प्राणापानगती रुद्ध्वा प्राणायामपरायणा: || 29||
अपरे नियताहारा:
प्राणान्प्राणेषु जुह्वति |
सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषा: || 30||
यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम्
|
नायं लोकोऽस्त्ययज्ञस्य
कुतोऽन्य: कुरुसत्तम || 31||
एवं बहुविधा
यज्ञा वितता ब्रह्मणो
मुखे |
कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे || 32||
श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञ:
परन्तप |
सर्वं कर्माखिलं पार्थ
ज्ञाने परिसमाप्यते || 33||
तद्विद्धि प्रणिपातेन परिप्रश्नेन
सेवया |
उपदेक्ष्यन्ति ते ज्ञानं
ज्ञानिनस्तत्त्वदर्शिन: ||
34||
यज्ज्ञात्वा न पुनर्मोहमेवं
यास्यसि पाण्डव |
येन भूतान्यशेषेण
द्रक्ष्यस्यात्मन्यथो मयि || 35||
अपि चेदसि
पापेभ्य: सर्वेभ्य: पापकृत्तम: |
सर्वं ज्ञानप्लवेनैव वृजिनं
सन्तरिष्यसि || 36||
यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन |
ज्ञानाग्नि: सर्वकर्माणि भस्मसात्कुरुते
तथा || 37||
न हि
ज्ञानेन सदृशं पवित्रमिह विद्यते
|
तत्स्वयं योगसंसिद्ध: कालेनात्मनि
विन्दति || 38||
श्रद्धावान् लभते ज्ञानं
तत्पर: संयतेन्द्रिय: |
ज्ञानं लब्ध्वा परां
शान्तिमचिरेणाधिगच्छति || 39||
अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति |
नायं लोकोऽस्ति
न परो न
सुखं संशयात्मन: || 40||
योगसंन्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् |
आत्मवन्तं न कर्माणि
निबध्नन्ति धनञ्जय || 41||
तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मन: |
छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ
भारत || 42||