किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा |
येषामर्थे काङ्क्षितं नो राज्यं भोगा: सुखानि च || 32||
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च |
आचार्या: पितर: पुत्रास्तथैव च पितामहा: || 33||
मातुला: श्वशुरा: पौत्रा: श्याला: सम्बन्धिनस्तथा |
एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन || 34||
अपि त्रैलोक्यराज्यस्य हेतो: किं नु महीकृते |
निहत्य धार्तराष्ट्रान्न: का प्रीति: स्याज्जनार्दन || 35 ||
